SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २७८० नारायणस्मृतिः आर्तानां का गतिब्रह्मन् वदस्व करुणानिधे । दुर्वासाः उवाच । शृणुष्व सारः पृष्ठोऽद्य लोकानां हितकाम्यया ॥६॥ संग्रहेण प्रवक्ष्येऽद्य सावधानतया शृणु । युगेष्वपि च सर्वेषु सत्त्वराजसतामसाः ॥१०॥ नित्यं गुणाः प्रवर्द्धन्ते तत्प्रभावं वदामि ते । सत्त्वप्रवर्तका भूयः प्रवर्द्धन्ति(न्ते)कृते युगे ॥११॥ सात्त्विकानान्तु वक्ष्यामि गुणानां कृत्यमद्भुतम् । स्त्रीपुंसंयोगमात्रेण स्त्रियां गर्भः प्रजायते ॥१२॥ तस्मिन्निविशते जीवः कर्मपाशवशंगतः । तस्य प्रवेशकालस्तु सात्त्विको यदि वै भवेत् ॥१३॥ जातमात्रस्य तस्यैव सात्त्विकत्वं भवेद्ध्वम् । ततः कतिपये काले बुद्धिस्सत्त्वे प्रवर्त्तते ॥१४॥ सत्त्रप्रवर्त्तनात्सोऽयं सत्कृत्यमनुतिष्ठति । स्नानं सन्ध्या जपोहोमः स्वाध्यायः पितृतर्पणम् ॥१२॥ अतिथ्याराधनादीनि प्रवृध्यन्ति (प्रवर्धन्ते) हि नित्यशः । नैव पापसमाचारे प्रवृत्तिस्यात्कदाचन ॥१६।। कालधर्म गते तस्मिन मुक्त श्वयं भवेद्ध वम् । तस्य प्रवेशकालस्तु राजसो यदि वै भवेत् ॥१७॥ रजोगुणपरीतात्मा जायते भुवि मानवः । पशुपुत्राद्यन्नकामः कामभोगसुखानि च ॥१८॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy