________________
अथ पञ्चमोऽध्यायः दुष्प्रतिग्रहादिप्रायश्चित्तवर्णनम्
नारायणः उवाच । भगवन्मुनिशार्दूल नमस्ते रुद्रमूर्तये । कालाग्निसहशप्रख्य कोपनाय नमोनमः ॥१॥ प्रसीद मे महर्षे त्वं पाहि मां शरणागतं । न कौटिल्यादहं पृच्छे नाहङ्कारान्महामुने ॥२॥ हिताय सर्वलोकानां पृष्टवानस्मि साम्प्रतम् । प्रसन्नो यदि वात्सल्यात् प्रष्टव्यं किंचिदस्ति मे ॥३॥ कोपो न स्याद्यदि पुनः मामनुज्ञापय प्रभो।
दुर्वासा उवाच । तात मां पितरं विद्धि गुरुमाचार्यमेव वा ॥४॥ मम कोपः प्रशमितः तव वास्तवदर्शनात् । अतस्त्वं भयमुत्सृज्य पृच्छ मां यद्यदिच्छसि ॥५॥
नारायण उवाच । पृच्छन्तं मामतीवात्तं उत्तरं दातुमर्हसि । सर्वपापप्रशमनं सर्वसिद्धिकरं नृणाम् ॥६॥ चिराभ्यस्तमहापापदूषितानां दुरात्मनाम् । दुर्देशगमनेनैव दुष्प्रतिग्रहकोटिभिः ॥७॥ म्लेच्छान्त्यश्वपचस्त्रीभिः संसर्गाचिरकालतः। अपेयमद्यपानाद्यर्दुष्टमांसादिभक्षणैः ॥८॥
0
.
4