________________
२७७६
नारायणस्मृतिः तं त्यजेच्छक्तिमान्सोऽयमाब्रह्म नरके वसेत् । शरणागतसंत्राणमवश्यं कार्यमेव हि ॥५॥ यावतत्रिवर्ष पतितोऽप्यात्मभावं न मुञ्चति । अभ्यासस्यानुसारेण कल्प्यं निष्क्रयणं भवेत् ॥६॥ आत्मभावविहीनस्स्यादतः परमनातुरः। चतुर्थवर्षपर्यन्तं कथंचित्पूर्वनिष्कृतिः ॥७॥ ततः परं न कहिः कृतनिष्क्रयणोऽप्ययम् । तथाऽपि पापबाहुल्यात् नालं पूर्वोक्तनिष्कृतिः ॥ ८॥ द्वितीयाब्दं समारभ्य सप्तमाब्दावधि द्विजः । प्राजापत्यद्वयं तस्य नित्यं स्यादिनसंख्यया ॥६॥ सौदर्शिनी तु संस्थाप्य कलशद्विशतेन तु । कूष्माण्डशतहोमेन गणहोमशनेन च ॥१०॥ पाहित्रयोदशानां च होमानां शतसंख्यया । तथैव विरजाहोमशतेन जुहुयाच्छुचिः ॥११॥ भूगोगर्भविधानेन पटगर्भविधानतः ।। स्वयं पितावाथान्यो वा जातकर्मादि भावयेत् ॥१२।। प्राच्योदीच्यांगसहितं प्रायश्चित्तमिदं चरेत् । नान्यथा शुद्धिमाप्नोति यथा भुवि सुराघटः ॥१३॥ एवमेव नवाब्दान्तं प्रायश्चित्तविनिर्णयः । दशमाब्दं समारभ्य याविंशतिवर्षकम् ॥१४॥ अघमर्षणसाहस्ररब्लिङ्गशतमज्जनैः । सहस्रकलशस्नानैः गायत्र्या प्रणवेन च ॥१।।