________________
वर्षादूध्वपापापनुतयेप्रायश्चित्ताकरणे न निष्कृतिः २७७५ एतद्वर्षात्पुराज्ञेयं वर्षादूर्ध्व न निष्कृतिः ॥५॥ तस्मात्पापं न कर्तव्यं नरैनरकभीरुभिः। वर्षात्परं तु. सामान्यपापाभ्यासात्पतत्यसौ ॥६॥ तस्मात् त्रिवर्षपर्यन्तं द्विगुणत्रिगुणादिकम् । कल्पनीयं प्रयत्नेन प्रायश्चित्तं मनीषिभिः ॥७॥ ततः परन्तु तद्भावमधिगच्छत्यसंशयः। इति श्रीनारायणस्मृतौ प्रायश्चित्तवर्णनं नाम
द्वितीयोऽध्यायः।
अथ तृतीयोऽध्यायः नानाविधदुस्कृतिनिस्तारोपायवर्णनम्
नारायण उवाच। दुर्मीसभक्षणेनैव दुस्संसर्गविशेषतः । दुष्कृत्यशतसाहस्रात् दुराचारसहस्रतः ॥१॥ अत्यन्तमलिने काये बहुकालं गतेऽपि च । नानाबन्धुविनिन्दाभिस्त्यागादात्मजनैरपि ॥२॥ परैरपि च संत्यागात् धनहान्या विशेषतः। अतिनिदमापन्नः काले बहुदिने गते ॥३॥ प्रपन्नश्शरणं कश्चित् कथं निष्कृतिरीरिता।
दुर्वासा उवाच । वास्तवाद्वाऽवास्तवाद्वा यः पुमान् शरणं व्रजेत् ॥४॥