SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २७७४ नारायणस्मृतिः वधपानापहरणगमनाद्यश्च विक्रयात् । । हरणाद्भोजनात्सङ्गात् ग्रहणात्सहसङ्गतः ॥४०॥ पापान्यनेकान्युच्यन्ते तत्र तत्र महर्षिभिः । निष्कृतिश्चापि कथिता द्रष्टव्यां विप्रनन्दन ॥४॥ वच्मि ते परमं गुह्य किमन्यच्छ्रोतुमिच्छसि ॥ इति श्रीनारायणस्मृतौ पापविवरणं नाम प्रथमोऽध्यायः॥ अथ द्वितीयोऽध्यायः बुद्धिकृताभ्यासकृतपापानांप्रायश्चित्तवर्णनम् नारायणउवाच। भगवन्मुनिनाथ त्वं मयि वात्सल्यगौरवात् । पुनवदस्व गुह्य मे शरणं प्रणतोऽस्म्यहम् ॥१॥ मत्यामत्या तथा पापात् अत्यन्ताभ्यासतस्तथा। बहुकालाभ्यासतश्च यत्पापं मनुजैः कृतम् ॥२॥ तत्तत्कालानुगुण्येन प्रायश्चित्तं वदस्व मे॥ दुर्वासा उवाच । नारायण महायोगिन् प्रायश्चित्तं यदीरितम् । तदबुद्धिकृते पापे द्विगुणं बुद्धिपूर्वतः ॥३॥ अभ्यासे त्रिगुणं चैवमत्यन्ताभ्यासतस्तथा । चतुर्गुणं बहोः कालात् षडगुणं परिकीर्तितम् ॥ ४ ॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy