________________
_
प्रतिग्रहपापप्रायश्चित्तवर्णनम २७७३ हिरण्याश्वस्य च तथा ग्रहणे भूसुराधमः। अष्टलक्षजपं कृत्वा शुद्धिमाप्नोति पूर्वजः ॥२६॥ हिरण्याश्वरथं गृह्य वसुलक्षजपं चरेत् । हेमस्तम्बेरमं गृह्य वसुलक्षजपाच्छुचिः ॥३०॥ हेमहस्तिरथस्यैव ग्रहणे मुनिनन्दन । कूष्माण्डलक्षहोमेन शुद्धोभवति पूर्ववत् ॥३१॥ पञ्चलाङ्गलदानस्य ग्रहणे विप्रनन्दनः । दशलक्षजपाद्देव्याः सम्यगेव समाचरेत् ॥३२॥ प्रतिगृह्य धरादानं दशलक्षजपं चरेत् । विश्वचक्रस्य ग्रहणे तत्पापप्रशमाय च ॥३३॥ प्रयुतेनाभिषेकेण शम्भोश्शुद्धिमवाप्नुयात् । लतायाः कल्पसंज्ञायाः ग्रहणे विप्रनन्दन ॥३४॥ लक्षद्वादशवारं तु गायत्रीजपमाचरेत् । . सप्तसागरसंज्ञस्य दानस्यैव प्रतिग्रहे ॥३॥ देव्या द्वादशलक्षं तु जपं विप्रस्समाचरेत् । प्रतिग्रहे चर्मधेनोस्तत्पापम्य विशुद्धये ॥३६॥ देवीद्वादशलक्षं तु जपं विप्रम्समाचरेत् । महाभूतघटम्यैव ग्रहणे विप्रनन्दन ॥३७।। लक्षमात्रं जपे वीं तम्मापापात्प्रमुच्यते । एवमादिमहापापान्यनेकानि च सन्ति हि ॥३८॥ यो विप्रो धनलोभन प्रतिगृह्णाति कामतः । नरके नियतं वासः कल्पान्तं परिकीर्तितः ॥३।।