________________
२७७२
नारायणस्मृतिः म्वर्णस्तेयेऽपि तद्वत्स्यान्मातृगन्तुस्तथैव च । अभ्यासे द्विगुणादीनि कल्पनीयानि सत्तम ॥१८॥ गोवधे च कृते विप्रैरमत्या तु पराककम् । मत्या चान्द्रायणं कायं नान्यथा मुच्यते त्वघात् ॥१६॥ तिलविक्रयणे चान्द्र तप्त तण्डुलविक्रये। निक्षेपहरणे विप्रश्चान्द्रायणमथाचरेत ॥२०॥ चण्डालीगमने विप्रम्त्वज्ञानान्मासमात्रतः। सेतुम्नानं ततः कृत्वा शुद्धिमाप्नोत्यसंशयः ॥२१॥ मत्या द्विमासमभ्यासे वत्सरं सेतुमज्जनम् । व्यतिपातादिदुष्टान्नभोजने न कृते यदि ।।२२।। प्राजापत्यद्वयं कृत्वा शुद्धिमाप्नोत्यसंशयः। विधु दग्न्यादिभिर्विप्रो मत्या प्राणवियुज्यते ॥२३॥ तत्पापस्य विशुद्धयर्थं तत्पुत्रादियथाविधि । मत्या त्वशीतिकृच्छ्राणि कृत्वा संस्कारमाचरेत् ॥२४॥ अमत्या दशकृच्छ्राणीत्येवमाहुमहर्षयः । तुलाप्रतिग्रहे लक्षगायत्रीजपमाचरेत् ॥२॥ हिरण्यगर्भग्रहणे त्वष्टलक्षं जपेद्बुधः । प्रतिग्रहे कल्पतरोरष्टलक्षजपं चरेत् ॥२६॥ गवां चैव सहस्र तु प्रतिगृह्य द्विजाधमः । नवलक्षं जपं देव्याः प्रातस्स्नात्वा समाचरेत् ॥२७॥ हिरण्यकामधेनुं तु प्रतिगृह्य द्विजाधमः । अष्टलक्षं जपेहे वीं तत्पापस्यापनुत्तये ॥२८॥