SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ महापातकोपपातकवर्णनम् २७७१ अधमो द्वापरयुगः कलिस्स्यादधमाधमः । कृते कृते युगे पापे तद्दशं संपरित्यजेत् ॥७॥ त्रेतायां ग्राममात्रं तु द्वापरे कुलमुसृजेत् । कलौ युगे विशेषेण कर्तारं तु परित्यजेत् ॥८॥ कृतत्रेताद्वापरे (षु) तु मरणान्तादिनिष्कृतिः। कलौ युगे तु सम्प्राप्ते मरणान्ता न निष्कृतिः ॥६॥ पापा नवविधाः प्रोक्ताः सावधानतया शृणु। ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥१०॥ य एतै (स्सह) संयोगी महापातकिनस्त्विमे । अतिदेशादमीषां यदातिदेशिकमुच्यते ॥११॥ एतत्प्रकाशपापानां रहस्यानां तथैव च । गोवधादिकमेनोयदुपातकमुच्यते ॥१२॥ यजातं तिलधान्यादि विक्रयात्पापमात्मनः । सङ्करीकरणं प्राहुः कन्यापहरणादिकम् ॥१३॥ मलिनीकरणं चैव चण्डालीगमनादिकम् । अपात्रीकरणं प्राहुः दुरन्नादेस्तु भोजनम् ॥१४॥ जातिभ्रंशकरं प्राहुस्तथा दुर्मरणादिकम् । प्रकीर्णकमिति प्रोक्तं पापानि नवधा क्रमात् ॥१।। महतां पातकानान्तु प्रायश्चित्तं कली युगे। द्वययुतैरेव गोदानैर्मत्या विप्रवधे कृते ॥१६॥ अमत्यायुतगोदाननिष्कृतिः परिकीर्तिता। सुरापानं द्विजः कृत्वा ब्रह्महत्याव्रतं चरेत् ॥१७॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy