________________
॥ श्रीगणेशाय नमः॥
* नारायणस्मृतिः *
प्रथमोऽध्यायः
नारायणदुर्वाससो सम्बादः एकदा नैमिषारण्ये ब्रह्मर्षिगणसेविते । नारायणो महायोगी दूर्वाससमपृच्छत ॥१॥ भगवन् मुनिशार्दूल सर्वधर्मभृतांवर । काले कलियुगे पुण्यधर्मे लुप्ते भुवस्स्थले ॥२॥ सर्वपापप्रशमनी प्रायश्चित्तविधिः कथम् । पापाः कतिविधाः प्रोक्ता विस्तरेण वदस्व मे ॥३॥
दुर्वासा उवाच । नारायण महायोगिन् शृणु विस्तरतो मम । कृते युगे चतुष्पादो धर्मों वर्द्धति वर्द्धति(ते)॥४॥ त्रेतायुगे तु सम्प्राप्ते पादहीनो भवेद्वषः । द्वापरे समनुप्राप्ते द्विपादाभ्यां वृषस्थितः ॥५॥ ततः कलियुगे प्राप्ते पादेनैकेन तिष्ठति । ततः कृतो युगःश्रेष्ठो मध्यमस्तदनन्तरम् ॥६॥