________________
पन्या :पतिशुभूपर्णपरमधर्मवर्णनम् २०६३ नैतस्मादधिकं दानं नैतस्मादधिकं तपः। नैतस्मादधिकं तीर्थ नैतस्मादधिकं दमः ॥६५४॥ नैतस्मादधिकाः कृच्छाः नैतस्मादधिकास्सवाः । . मुक्त्वा तत्पतिशुश्रूषां तस्मादन्यन्न किंचन ॥६५।। धर्म चरेत्प्रयत्नेन साध्वी नारी पतिव्रता। नैनमुच्चैः प्रभात प्रियमेवास्य यश्चरेत् ॥६५६।। अप्येनं कुपितं रोषात् प्रतिकुप्येत्कथंचन । कठोरं निर्दयं करं निरनुक्रोशमक्षमम् ॥६५७।। ताडयन्तमहोरात्रं शपन्तमपि दुई दम् । न दूषयेन्न चाक्रोशेल्न क्रुध्येत्प्रशपेदपि ॥६५८।। छायानुवर्तिनी नित्यं दुःखिते दुःखिता भवेत् । । सुखिते सुखिता तस्मिन् हृष्टे हृष्टा स्थिते स्थिता ॥६५६ शयिते शयिता सुप्ते पश्चात्सुप्ता स्वयं भवेत् । आहूताऽतित्वरा गच्छेदपि कायं विहाय च ॥६६०॥ शतं सहस्र गोप्यं वा गुह्यमावश्यकं तु वा । ताम्बूलचर्वणं नित्यं अक्ष्णोरञ्जनमेव च ॥६६१॥ कुङ्कुमं चापि सिन्दूरं कज्जलं कञ्चुकं कचः । कबरी च प्रशस्तं स्यात्सुगन्धं स्रक्सुमादिकम् ॥६६२।। नित्यमावश्यकं स्त्रीणां सतीनां विधिचोदनात् । भर्तरि प्रोषिते स्त्रीणां नालङ्कारो विधीयते ६६ पतिव्रतानां धर्मोऽयं तत्पुरोऽलङ्कृतिः परा। अन्वहं निशयास्नानं सिन्दूरं कुङ्कुमं सुमम् ॥६६४॥