________________
२७६२ . लोहितस्मृतिः
दैवाकीत्येकचषकमतमेव न संशयः। तासामाकण्ठमेव स्यादास्यस्य क्षालनं च तत् ॥६४४॥ भर्ना स्नानं नित्यमेव न मध्येऽहि(मध्यान्हे) विधीयते । भर्तुः स्नानात्परं प्रातः होमकार्याय तच्च हि ॥६४॥ होमाभावे यथेच्छ स्यात्सङ्गवे पाकहेतवे । पाकाभावेऽपि कालोऽयं सङ्गवो वाथ तत्परः ॥६४६॥ मध्याह्नो नापराह्नः स्यात्सदा कुर्याद्धरिद्रया। हरिद्रालेपने नित्यं तर्जन्या विदिशां दिशाम् ॥६४७।। सर्वासां देवपत्नीनां तस्यादानं च धर्मतः । कर्तव्यत्वेन विहितं हरिद्राया निरन्तरम् ॥६४८।। विदिशां देवपत्नीनां चतसृणां दिशामपि । हरिद्राकल्कलेशांस्तान् अक्षिप्त्वेवातिगर्वतः ॥६४६॥ अज्ञानाज्ज्ञानतो वापि नमस्कारप्रपूर्वकम् । या स्नाति विधवा नूनं सत्यमेव भविष्यति ॥६५०।। या करोति शिरःस्नानं जीवभत्री सुमङ्गली । पतित्री सा प्रकथिता तथोक्तं ब्रह्मवादिभिः ॥६५॥ विनाभ्यनुज्ञां भर्तुर्या चौपवस्तं करोति वै । भर्तु रायुष्यमन्नाति सैषा पापालया स्मृता ॥६५२।।
॥ पतिव्रताधर्माः॥ भ शुश्रूषणं नार्याः परमो धर्म उच्यते। नैतस्मादधिको धर्मो नैतस्मादधिको जपः ॥६५३॥