________________
सुवासिनीनांशिरःस्नाननिषेधः २०६१ कपोलयोस्ताडयित्वा तत्तद्ग्रामनिवासिनाम् । कार्याय कर्मजालस्य दक्षमेकं नियुज्य च ॥६३४।। पश्चात्तस्यापि सर्वस्वं हृत्वा राष्ट्रात्प्रवासयेत् । विश्वस्तामशिरस्नातां शिरःस्त्रातां सुवासिनीम् ॥६३।। कदाचिदवशादृष्ट्वा कुर्यात्सूर्यावलोकनम् । शिरःस्नानं पतेः पित्रोः कृत्स्नश्राद्धदिनेषु तत् ॥६३६।। पाकस्य हेतवे हि स्यात् न चेन्नास्त्येव किंच तत् । प्रत्यब्दमात्रे भवति तदभावेऽपि केवलम् ॥६३७।। शिरःस्नानं ग्रहणयोः पूर्व चाप्यपरं परम् । द्विवारमपि यत्नेन तथा बन्धुमृतावृतौ ॥६३८।। चतुर्थेऽहनि तद्वर्त्मनियमेन समासतः । तथैवापूर्वतीर्थेषु चण्डालस्पर्शनादिषु ॥६३६॥ अभ्यङ्गकालनैयत्यं आर्थिकं प्रभवेद्धि वै । अध्वराद्यन्तयोरेवं नान्यत्रासां तु मास्तकम् ॥६४०।।
॥सुवासिनीनां शिरःस्नाननिषेधः ।। सुमङ्गलीनां तत्स्नानं हरिद्रावर्जनेन चेत् । जलं श्मशानगर्तस्थं सत्यं स्याद्धरणीगतम् ॥६४१।। यधु द्धृतं भाण्डगतं चण्डालचषकस्थितम् । तत्क्षणादेव भवति तदा तस्मात्तयैव हि ॥६४२।।
॥ हरिद्रास्नानविधिः॥ तथा स्नानं प्रकर्तव्यं अजस्रं तद्धरिद्रया। अजस्र विहितं स्नानं रात्रौ चेत्तज्जलं पुनः ॥६४३।।