________________
उत्तमदण्डव्यवस्थावर्णनम्
२७५ मृदन्तरेण भूयश्च पूरयेत्तां भुवं यथा । त्रियम्बकेन मन्त्रेण हुनेदष्टोत्तरं शतम् ॥६१२॥ ब्राह्मणान् भोजयेत्पश्चाच्छत्तयाचित्रान्नषड्सः ।
आगामिसूतकं ज्ञात्वा गत्वा देशान्तरं त्वरन् ॥६१३।। लौकिकं वैदिकं तत्र नित्यं नैमित्तिकं तु वा। परस्य स्वस्य वा कर्म संप्राप्त कुरुते यदि ॥६१४|| कारयेद्वा विशेषेण यद्यदेवाखिलं परम् । तत्सूतककृतं नूनं भवेदेव न चान्यथा ॥६१५॥ कृतस्य सूतके यत्तु प्रायश्चित्तमुदीरितम् । तथैवेहास्य कथितं कर्मणो ब्रह्मवादिभिः ॥६१६।। तादृशं तमिमं राजा बलादाहृत्य सत्वरम् । उत्तमेनैव दण्डेन दण्डयेद्धर्मसिद्धये ॥६१७।। परप्रयोजनदशायां प्राप्तायां (तु) मृषाच्छलात् । चिराद्देशान्तरगतसूतकं नेति वै वदन् ॥६१८॥ दाप्यश्शतपणान्सद्यः तत्सत्यं चेत्तु तत्पुनः । स्वयेदं दुष्कृतं दुष्ट किं कृतं तद्धठाद्यथा ॥६१६।। न युक्तमेवं करणं तदिदानी सहिष्णुना। तदाद्य तावत्पर्यन्तकालहाते विगर्हितम् ॥६२०॥ एवं जनानां पुरतो लज्जयेत्तं विगर्हयेत् । सूतकी सन्परे देशे श्राद्धभुक् शुभकर्मणः ॥६२१॥ आत्विज्यं वैदिकस्यापि कुर्वन्यो वर्तते तराम् । तमेनं बालिशं मूर्ख सद्यो राजा विशेषतः ॥६२२॥