________________
२०५८ .... लोहितस्मृतिः ।
इयं रण्डाप्यरण्डेव ज्ञात्री धर्मपरा सती। सर्वज्ञाव्यपि या नूनं दुर्बुद्धया सततं कलिम् ॥६०२।। स्वजनैः ज्ञातिभिस्सद्भिः पितृभ्यां बान्धवैः परैः। कुर्वती सततं पीडां तद्र्व्यहरणेच्छया ॥६०३।। दुर्व्यापारादिना तेषां मृत्युस्सा सार्वकालिकी । तादृशीं धार्मिको राजा स्वदेशादन्यतो नयेत् ॥६०४।। तत्कृता दुष्क्रियास्सर्वा मार्जयित्वाऽथ सत्क्रियाः । कारयेदेव विधिना सद्धर्मस्थापनाय वै ॥६०।। असक्रियैककर्तारं असद्वाक्यैकवादिनम् । सद्षकं दुष्कर्मबोधकं राष्ट्रतो नयेत् ॥६०६।। निष्ठीवन्तं सभामध्यात्सभायां निर्भयेन वै। ताम्बूलचर्वणपरं वाक्येनोद्वासयेत्ततः ॥६०७।। कल्याणराजसदसि रागेण यदि वा क्षुतन् । अपानयन्वा दुर्बुद्धिं तूष्णीकं हि ततस्तु तम् ।।६०८।। सद्यउत्थापयित्वैव तत्रदर्भभुवं दहेत् ।
॥ सभायां एकस्मिन् अन्यस्यपतने । सभानृपतने जाते निद्रया यस्य कस्य वा ॥६०६।। तद्वस्त्रं सहसाच्छित्वा वेष्टयित्वा शिरोऽस्य वै। विसर्जयित्वा दूरेऽथ तं दूरीकृत्य तत्परम् ॥६१०।। प्रहृत्य पृष्ठ हस्तेन नां भूमिं च ततः परम् । प्रोक्ष्योद्धृत्याथतान्पांसून बहिर्गेहाद्विसर्जयेत् ॥६१॥