________________
समीचीनायरण्डायावर्णनम् । २७५७ अन्तः पूर्णमधः पूर्णमूवं पूर्ण च तेन हि। परेण ब्रह्मणा तेन स्वयं तद्ब्रह्म किं कखौ ॥५६॥ नेतःपरमहं त्वस्मिंचेति बुद्धिः परा दृढा । रण्डापि सा सर्ववन्द्या सदा शास्त्रार्थतत्त्ववित् ॥५१२॥ यस्याः स्यात्काक्षितं वस्तु परमिष्टं ममेति न । सैवं साक्षात्परं ब्रह्म सर्व(च) ह्यप्रयोजकम् ॥५६३॥ तच्चर्याज्ञाननिष्ठाद्याः सर्ववन्द्याः सदा जनैः । स्वीकार्याः स्युर्विशेषेण तस्यां बुद्धिं तु मानुषीम् ।।५६४॥ न कुर्यादेव धर्मेण सा ब्रह्मव न संशयः। न यस्याः स्वं परं चेति परभावोऽप्यहकृतिः ॥५६।। देहे दुःखसुखे न स्तः सेयमप्राकृता स्मृता । सर्वप्राणिसमा दुःखसुखतुल्या निराकुला ॥५६६।। निराशा निर्ममा साध्वी रण्डाऽपीयं विशिष्यते। दुर्व्यापारमकृत्वैव परेषां स्वहिताय वै ॥५६७।। वृत्तिक्षेत्रगृहक्षोणी विषये निस्पृहा च या । सापि रण्डा समीचीना प्राकृताभिः समा न तु ॥५६८।। इदं कृत्यमिदं कार्यमिदं शास्त्रमिदं परम् । इदं युक्तमिदं न्याय्यं इदं धयं सनातनम् ॥५६६।। अप्रदेयं देयमिदं अवाच्यं वाच्यमेव च । अनुष्ठ यं च तद्भिन्न क्रेयमक्रयमेव च ॥६००|| अश्राव्यं श्राव्यमित्येतज्ज्ञानं तस्य निरीक्षणम् । अनुष्ठानं विशेषेण यस्याः स्युः साप्यकालतः ॥६०१॥ .