SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २७५६ लोहितस्मृतिः कं खं भूौस्तथा वायुः पुष्पवन्तौ सुरासुरान् । वृकं खरं खगं छागं पश्यन्ती ब्रह्म शाश्वतम् ॥५८०॥ सत्यं ज्ञानमनन्तं च सच्चिदानन्दलक्षणम् । सर्वोपनिषदां सारं सर्वोपनिषदीरितम् ॥५८१॥ भेदं सर्वं परित्यज्य सोऽहं भावनयैव हि । विभावयन्ती सततं स्वात्मत्वेन समत्वतः ।।५८२।। सुखं दुःखं भवं भावं भावाभावौ तथैव च । विपत्तिमविपत्तिं च द्वन्द्वाद्वन्द्व लयालयौ ॥५८३॥ शत्रु मित्रं तथानुष्णमुष्णं तेजस्तमस्तथा। सिद्धान्तपूर्वपक्षौ च भेदराहित्यतोऽनिशम् ॥५८४॥ समदृष्टया प्रपश्यन्ती परत्वमपरत्वकम् । कामं क्रोधादिकं चापि रागद्वषादिकं परम् ॥५८।। लाभालाभौ च सततं स्वात्मन्येव व्यवस्थितम् । एकमेवेति मन्वाना द्वितीयं नेति सूक्ष्मतः ॥५८६।। मन्यमाना महाभागा महती ब्रह्मवादिनी । जाति मानं च गवं च जन्मवर्णाश्रमादिकम् ॥५८७॥ अहं भावं स्वकीयत्वं त्यक्त्वा विस्मृत्य सत्वरम् । किमप्यकाङ्क्षमाणैव सर्ववस्तुषु केवलम् ॥५८८।। काममिच्छामि नात्यन्तास्पृहया येन केनचित् । लब्धेन प्राणवृत्तिं तां कुर्वती च सुसंस्थिता ॥५८६।। नित्यतुष्टा नष्टदुःखा पूर्णकामा च सन्ततम् । अदः पूर्णमिदं पूर्ण पूर्णात्पूर्ण बहिस्तथा ॥६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy