SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २७५४ लोहितस्मृतिः . उत्तमः कथितस्सद्भिर्मध्यमस्य तु मध्यमः । ज्येष्ठस्य तु सुतास्सर्वे चाधमाः परिकीर्तिताः ॥५६०।। तद्भिन्ना ज्ञातिपुत्राश्चेदधमाधमसंज्ञकाः । एतेन खलु सर्वत्र दौहित्रे सति सङ्कटे ॥५६॥ पुत्रस्यग्रहणं दुष्ट शास्त्रजालैरशेषकैः।। इतियत्तस्य दौहित्रामतं यदि तदा तराम् (१) ॥५६।। न कार्यमेव तन्नो चेन्मतेनास्थ मुदादिना । सम्यकतुं शक्यते हि तस्मिंश्चेद्यदि दुःखिते ॥५६३।। सगृहीतस्स तु शिशुः पुत्रत्वेन न वर्धते । तत्संमतिश्च परमा नास्त्यस्तीति ततः परम् ॥५६४॥ कालेन महता पश्चात्कल्प्या फलबलेन हि । तादृशस्य च तादृश्याः विधुरस्य विपश्चितः ॥५६५।। तत्वल्या विधवाया वा स एषः पुत्रसङ्ग्रहः । उपयोरेगोरेर पृथक्त्वेन तथाविधम् ॥५६६।। संगच्छते कर्म कतु नैताभ्यां भिन्नयोर्ननु । सर्वथा शक्यते कतुं नान्यस्य तु कथंचन ॥५६७॥ अन्याया विधवाया वै सोऽयं पुत्रपरिग्रहः । उपमारहितश्रीकः मिथिलोत्पत्तिसन्निभः ॥५६८।। एतादृक्पुत्रकरणे गुणा ह्यावश्यकाः स्मृताः । तेऽत्यन्तदुर्लमा दिव्या ते सन्ति यदि वै तदा ॥५६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy