________________
पुत्राभावेदत्तकविधानवर्णनम् २७५३ पुत्रो वा पुत्रिका वापि यस्यास्साऽस्ति ह्यपुत्रिणी । पुत्रसंग्रहणेनापि भर्ना साकं च पुत्रिणी ॥५४६।। वन्ध्याऽपि प्रभवेदेव शास्त्रेण रचितेन चेत् । अनेकवारं पुत्रस्य ग्रहणं शास्त्रनिन्दितम् ॥५५०।। नष्टऽपि दत्ततनये न पुनस्तचरेदपि । सगृह्णीयादेकमेव न द्वौत्रीन् चतुरोऽपि वा ॥५५॥ असकृद्वा सकृद्वापि पुमान स्त्री वा पृथङ्न तु। मिलित्वैवाऽतियत्नेन कुर्यात्तद्ग्रहणं मुदा ॥५५२।। सहस्रदः सहस्राठ्यो ब्रह्मनिष्ठोऽन्नदस्त्वति । वहुशिष्यधनज्ञातिग्रामभूमिविशेषवान् ॥५५३।। प्रथितस्त्वग्निचिन्नष्टपुत्रो दौहित्रवानपि । नष्टभार्या मित्रशिष्यज्ञातिप्रार्थनया तदा ॥५४॥ स्वीयसन्ततिविच्छित्तौ सर्वमत्या विधानतः । सङ्ग्रहीयाज्ज्ञातिपुत्रं दौहित्रस्य मतेन चेत् ॥५५।। अपि पत्नी तादृशस्य विधवा नष्टपुत्रका । कुलशिष्यज्ञातिधनबन्धुग्रामहिताय च ॥५५६।। तेषां वाक्येन दौहित्रमत्या पुच्याश्च ताठशे । सङ्कटे महति प्राप्त प्रकुर्यात्पुत्रसङ्ग्रहम ॥५५७।। स पुत्रो देवरसुतो भवितव्यो न हीतरः । पुत्रप्रदश्च सर्वेषाममात्यानां च मध्यमे ॥५५८।। देवरा एव विख्याता ज्ञातिभ्यो न्यायवर्मना । देवरेष्वपि भूयश्च सर्वेषामन्त्य एव चेत् ॥५५६।।