________________
शास्त्रदृष्ट्याधर्मपालनमहत्त्ववर्णनन् २७५१ शास्त्रदृष्ट्या समालोच्य पश्चाद्धर्म समाचरेत् । पुंसो नित्याधिकारः स्यात्तद्द्वारा तनयस्य वा ॥५२७।। पित्रोः श्वसुरयो तुरनुज्ञानास्त्रियस्य तु। पुंसः शतगुणन्यूना वनिता सा सभर्तृ का ॥५२८।। तत्सहस्रगुणन्यूना विश्वस्ता नष्टपुत्रका। तत्सहस्रगुणन्यूना रण्डा सर्व विवर्जिता ॥५२६।। चित्यग्निधूमकाष्ठोल्मूकसमानाऽतिगर्हिता। सैतादृशीचेति वाक्यप्रलापनपरा खला ॥५३०।। सारण्डा तत्र भूदानं ग्रहदानं च नैष्कुटम् । कुल्यादानं कूपदानं वापीदानं च गाहनम् ॥५३१।। क्षेत्रदानं वृत्तिदानं सेतुदानं च वाक्षिकम् । औदान्यं माण्टपं सौधं प्रासादं गैहदं तदा ॥५३२।। यदाकरोत्तथैवाहं करिष्यामीति मामकम् । वदन्त्येवं निर्भयेन निर्लज्जं जनतापुरः ॥५३३।। तस्मादनुमतिं श्वश्र्वोः ज्ञातीनां चेत्तु सामगम् । तुल्यैवेति पुनस्त्वजमज्जनानां विशेषतः ॥५३४।। आकाङ्क्षानुमतिश्चाथाधिकोमम तु सांप्रतम् । सा ज्ञातीननुसृत्य स्वान् तत्सम्मत्या चकार हि ॥५३५।। इत्युक्त चेन्मामकानां जनानां परया ततः । संमत्यैव करिष्यामि पश्यतां तद्विरोधिनाम् ।।५३६।। तन्निरोधे कथं त्वं वै करिष्यसि नयो न तु । न युक्तमेवं करणमित्युक्त तत्र सज्जनैः ॥५३७।।