________________
२७५०
लोहितस्मृतिः युक्तत्वेनैव गृह्णन्ति लोके सन्तस्सुमेधसः। कृतेऽपितादृशे दाने कदाचिन्मूढयोपिहा ? ॥१६॥ समागतो यतोमूलः स्थावरो वनितास्पदम् । यथा वा तद्गतं भूयः तथाकुर्यान्नचेद्वृथा ॥५१७|| स्वगोत्रैककृतं भूमिदानस्यादुत्तमोत्तमम् । भिन्नगोत्रकृतं तत्तु तदर्धफलकं विदुः ॥१८॥ सत्सु साधुषु तिष्ठत्सु स्वकीयेषु जनेषु चेत् । आहिताग्निषु विद्वत्सु तद्धरण्यधिकारिषु ॥५१६।। विधवानाहिताग्नीनां जनानां तादृशीं धराम् । न दद्यादेव सहसा दत्ताप्येषा कथञ्चन ॥५२०।। न सिध्यत्येव तेषां सा पुरोडाशः शुनामिव । भूरस्माकमिदं मन्त्रं आहिताग्नेः प्रतीष्टिके ॥२१॥ अध्वयों सति जपति स्वीया सा भूमिरुत्तमा । तदीयपूर्वकोपात्ता कथमन्यत्र गच्छति ॥५२२।। गता विना न्यायवर्त्मद्वारा तस्य तु सा ततः। वृद्धितान भवत्येव वृद्धिदात्र्यपि केवलम् ॥५२३।। सद्यस्ततस्सर्ववंशमूलोन्मथनकारिणी । भवेदेव न सन्देहः हरिपत्न्यखिलाश्रया ॥५२४।। कालेन महता तस्मान्न कुर्यात्कर्म तादृशम् । नारीनरो वा मेधावी समालोच्य चिरंस्थिताम् ॥५२॥ स्ववंशेऽस्याधिकारं च तदागमनकारणम् । देशं कालंयुक्तपात्रं युक्त चायुक्तमेव च ॥५२६।।