________________
२७४८
लोहितस्मृतिः नामान्येतानि तुच्छानि चैतासां कर्ममात्रके। सन्नामके नाधिकारस्तथाप्यासां विधेर्वशात् ॥४६४|| सवृत्तिर्वसुधारूपा निबन्धादिस्वरूपका। संप्राप्तापिपितुर्भतुर्बन्धूनामथवा पुनः ॥४६। सकाशात्तु तया पश्चात् श्रियं सुमहती पराम् । संप्राप्ता अपि यद्यताः सततं परतन्त्रकाः ॥४६६। स्वपात्रस्थोर्णकबलप्राशनेऽपि स्वतन्त्रतः । अत्यन्तशक्तिविकलाः सर्वशास्त्रैकवर्त्मतः ॥४६॥ तथा हि तासां सर्वासां वनितानां महत्कुले । संजातानां विवाहस्य पश्चात्संवसरात्परम् ॥४६८।। कार्तिकगौरीपूजायाः तद्दीपाराधनात्परम् । त्रियुद्धिमृस्तम्भमहानिकटे तव्रते तदा ॥४६॥ महासुमङ्गलीवृन्दगीतवाक्यविशेषतः। प्राप्ताया अप्यनुज्ञायाः तत्पूर्तिकरणाय वै ॥५००।। नित्यं भुक्तिक्रियाकाले यां काञ्चिद्यं च कं च वा। दृष्ट्वा पृष्ट्वा भोजनस्याभ्यनुज्ञां तदनन्तरम् ॥५०१।। तया वा तेन वोक्त वाऽभ्यनुज्ञानविशेषके । सा भुक्तिः क्रियते तस्मात् वनितामात्रया भुवि ॥५०२।। अभ्यनुज्ञानदेवास्ते प्रथमं स्याद्गणाधिपः । वर्पत्रयं ततः पश्चाद्गुहस्ताक्ष्योऽथ वा स्मृतौ ॥५०३।। विकल्पत्वेननिर्दिष्टौ पूर्ववत्कालनिर्णयः । पुष्पवन्तौ च निर्दिष्टौ पश्चान्नोचेन्जगद्गुरू ॥५०४।।