________________
२७४४
लोहितस्मृतिः परं तु तत्र लोकानां पश्यतां तास्तथाविधाः । अनाथा इव भान्त्येता न तु तत्कृपया तराम् ।।४५१।। एतादृशी लोकरीतिस्तत्र भर्तृ निकेतने । अत्यन्तपारवश्यं तत् सुस्पष्ट लोकवर्मतः ॥४५२॥ गतानां तत्र निर्लज्ज पुरस्कारैकवर्जनात् । हैन्यमादौ जायते हि शनैः कालेन तत्परम् ॥४५३॥ भागांशादिप्रश्नमूलकलहेन निकृष्टता । स्वयमेवोत्पद्यते च जाते चैवं विशेषतः ॥४४॥ शापरोदनहुङ्कार त्वङ्कारादिककश्मले। समुत्थिते सङ्कटेऽस्मिन् मिथयोः पश्यतां पुरः ।।४५५।। किं कार्यमिति तैः प्रोक्त तामेनात्ताश्च वीक्ष्य वै। तत्परं दीयते चेति प्रतिज्ञाप्य ततः परम् ॥४५६।। यन्छास्त्रेणैव विहितं तावन्मात्रं तदा तदा। अस्माभिर्दीयते चेति नान्यत्किमपि क्षुल्लकम् ॥४५७॥ धर्मतोऽस्यास्तु रण्डाया मध्याह्नऽन्वहमेव वै । सार्वत्रिकरसंपूर्णास्तण्डुला लवणं समित् ॥४८॥ वसनंत्रिपणकक्रीतं त्रिमासानां तथैव च। एतावदेव साध्वीनां चोदितं विधवाशनम् ॥४६॥ प्रदेयं शास्त्रमार्गेण चैतस्मादधिकं न हि । इत्येवमुक्त्वा वचनं तावन्मात्रे ततः पुनः ॥४६०॥ दत्तेथ(ध) नालमेतन्मे चेति रोदनपूर्वकम् । द्वारे निरुद्ध ज्ञातेस्तु तत्र सन्तस्तु केचन ॥४६१॥