________________
२७३८
लोहितस्मृतिः संपादितस्य भवति नासद् द्रव्येण तद्भवेत् । न्यायार्जितस्य द्रव्यस्य सत्त्वं प्रकथितं बुधैः ॥३८६।। तदन्यायार्जितं द्रव्यं असदित्येव सूरिभिः । कथितं सत्कर्मजालायोग्यं(?) निरयभीतिदम् ॥३६०।। तत्सद्र्व्यं ब्राह्मणस्य याजनाध्यापनादिभिः । सम्प्राप्त यद्विशेषेण स्वीयोर्वीसंभवं च यत् ॥३६१।। धान्यादिकं शाकमूलशलाटुफलमूलकम् । न्यायार्जितमितिप्रोक्त योग्यं सत्कर्मणां सदा ॥३६२।। महादानादिसंप्राप्त गजदानादिनागतम् । कुमा(ला)ध्यस्थ्यादिनाप्राप्त ग्रामसामान्यजादिकम् ॥३६३।। शौद्रं सौतं राथकारं ताक्षं त्वाष्ट्र तथैणवम् । मालाकारीयमाम्बष्ठतौन्नवाय(तान्तुवाय)च सौचिकम् ३६४ कौलकं सौचिकं नाटं शैलूषं भारतं तथा । पामरं जाल्मकं गाधं चाण्डालं यावनं तथा ॥३६शा म्लेच्छ होणं कौङ्कणं वा भृतकाध्यापनादिभिः । आद्यश्राद्धादिसंप्राप्त स्वामिद्रोहादिनागतम् !!३६६। चौर्यानृतसमुद्भूतं दुष्टयाजनसङ्गतम् । अहीनक्रतुसंलब्धं कन्यकाविक्रयोत्थितम् ॥३६७।। निक्षेपवार्युष्यगतं यदन्यच्छास्त्रनिन्दितम् । तदेतदखिलं द्रव्यमसमीचीनमुच्यते ॥३६८।। समीचीनं तदेव स्यात् सच्छ्रोत्रियमुखागतम् । एकविंशतिसंख्याकक्रतुदक्षिणया तथा ॥३६६।।