________________
श्राद्ध स्यापत्कल्पेसम्पादनवर्णनम् २७३५ तत्कर्तव्यं यत्र कुत्र मृतेऽहल्येव नान्यतः। . तदभावे लोपएव भवेदेव तु तत्पुनः ॥३५७।। मुद्गाभावे माषमात्रैः कतुं सूपाय शक्यते । माषाभावे त्वङ्गलोपो भवेदेव न संशयः ॥३५८।। महापदि. कदाचित्तु तेन लोपेन तत्युनः। शक्यते हि तथा कतुन त्याज्यं तत्तु तेन वै ॥३५६।। एषा हि चोदनाप्रोक्ता सुमहाचौर्यवर्त्मना । शाकाश्शाको तथा शाकः पृथक्त्वेन मनीषिभिः ॥३६०॥ कीकटादिषु तच्छ्न्ये न त्याज्यं श्राद्धकर्म तत् । पयोदधिघृतक्षीरसूपभक्ष्यादिसंभवे ॥३६१।। शाकाभावे विशेषेण बाधकं न भवेदिति । लौकिकानां वैदिकानां च महदुक्तिमहत्तरा ॥३६२।। लौकिकोक्तिवैदिकोक्तिः स्वीकार्ये वैदिकेऽपि च । भविष्यति कदाचित्तु चापत्कल्पं तदुच्यते ॥३६३।।
॥ श्राद्धद्रव्याभावे अनुकल्पः ॥ घृतस्य दुर्लभे जाते कदाचित्सङ्कटे खरे। देशनाशे राष्ट्रनाशे महावर्षादिदुर्घटे ॥३६४।। तैलं प्रतिनिधिस्तस्य दुर्लभे तस्य चागते । तस्य प्रतिनिधिस्त्वाज्यं दुर्लभे तु द्वयोरति(पि) ॥३६५।। पयः प्रतिनिधिः प्रोक्त तस्य प्रतिनिधिदधि । सर्वेषामपि चैतेषां दुर्लभे किं पुनस्त्विति ॥३६६।।