________________
२७३४
लोहितस्मृतिः अग्नौ करणतो वापि पिण्डदानेन धर्मतः । तदङ्गतर्पणेनैवं पित्रोः प्रत्यब्दमेककम् ॥३४७॥ अत्यन्तावश्यकत्वेन कर्तव्यत्वेन चोदितम् । अत्यन्तापदि च त्याज्यं न भवेदेव सर्वदा ।।३४८।।
॥ प्रत्याब्दिकाकरणेप्रत्यवायः॥ यदि त्यक्त तद्भभवते तत्क्षणादेव केवलम् । पतितः स्यान्न सन्देहः तस्मात्तत्तु विधानतः ॥३४॥ सर्वप्राणेन कुर्याद्व ब्राह्मण्यस्यास्य सिद्धये । यदलभ्यं वस्तु तस्य प्राप्तये मासपक्षयोः ॥३०॥ पूर्वमेव यतन् बाढं येन केन प्रकारतः। तत्संपाद्य प्रयत्नेन गोपयेत्तस्य कर्मणः ॥३५॥ जलानि तण्डुलामाषा मुद्गाशाकद्वयं कृतम् । पत्राणि दक्षिणां शक्त्या पात्राण्येतानि वाडवाः ॥३५२।। मन्त्रज्ञाः श्राद्भकार्याय दशप्रोक्ता मनीषिभिः । एतेषामेकलोपेऽपि न श्राद्धं सुकृतं भवेत् ॥३५३।। जलाभावे किमपि तन् न सिध्यत्येव सर्वदा । तानि यत्र समृद्धानि तत्र श्राद्धं हि सिध्यति ॥३५४।। तथैव तण्डुलाभावे न प्रत्यब्दकथा भवेत् । तण्डुलाश्चहिरण्यं च प्रधानद्रव्यमुच्यते ॥३५।। कार्यमात्रस्य कृत्स्नस्य किमुत श्राद्धकर्मणः । तवयं प्रथमं यत्नात्सङ्गृह्याति प्रयत्नतः ॥३५६।।