SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २७३२ लोहितस्मृतिः तन्मातामहगोव्येकः दौहित्रोऽन्यस्ततः परः । निर्दोषस्त्रिविधोज्ञेयः तमेनं प्रवदामि च ॥३२।। कन्याप्रदानसमये तेन मातामहेन वै। प्रोक्त एवं यदि तदा सोऽयमाद्योऽयमीरितः ॥३२६॥ अपुत्रोऽहं प्रदास्यामि तुभ्यं कन्यामलकृताम् । अस्वां यो जायते पुत्रः स मे पुत्रो भविष्यति ॥३२७|| एवं द्वितीयो विज्ञेयः कालेऽस्मिन्नेव केवलम् । भयन्तरेणचेत्प्रोक्तः दौहित्रः कोऽपिकथ्यते ॥३२८॥ अपुत्रोऽहं प्रदास्यामि तुभ्यं कन्यां भवानपि । पुत्रार्थी चेदिहोत्पन्नः स नौ पुत्रो भविष्यति ॥३२॥ अस्य गोत्रद्वयं ज्ञेयं तद्वंशस्य ततः परम् । गोत्रद्वयं च समाह्य विवाहादिषु कर्मसु ॥३३०॥ एताहगभिसन्ध्येकरहितेन यदि त्वसौ। कन्यकायाः प्रदनायाः तनयो दुहितुः पुनः ॥३३१।। तातगोव्येव विज्ञेय एवं स त्रिविधो मतः । त्रिविधोऽपि समो ज्ञेयो दौहित्रोऽयमकल्मषः॥३३२॥ वर्गद्वयोद्धारकश्च सर्ववर्णेकसम्मतः। तमेवं वीक्ष्य दौहित्रं विभक्तज्ञातिसञ्जयः ॥३३३॥ वर्द्धमानं श्रिया दीप्त्या वर्चसा भ्राजसौजसा। यशसा कान्तिदाक्षिण्यसौजन्यादिगुणादिभिः ॥३३४॥ निष्कारणं वृथा मोहात्प्रकुप्यति हि केवलम् । प्रतिग्रहो वा होमो वा दौहित्रस्य विधीयते ॥३३॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy