________________
दौहित्रवैशिष्ट्यवर्णनम् २७३१ कुतपः श्रोत्रियो वीरोभ्र णोब्रह्म सनातनम् । उपमारहितास्सर्वे त एते पितृवल्लभाः ॥३१।। पुत्रदत्ताच्छतगुणा विनापाञ्जलयो नृणाम् । तद्दौहित्रेणसंत्यक्ता अक्षय्याः प्रीतिकारकाः ॥३१६॥ मृतानां कथितास्सद्भिनित्यनैमित्तिकादिषु । ततः प्रत्यब्दभिन्नेषु सर्वश्राद्धषु सन्ततम् ॥३१७।। स्वपितुर्वर्गसाम्येन जननीपितृवर्गके। स्वामातृवर्गसाम्येन तन्मातृत्रयकस्य च ॥३१८।। समर्चनं प्रकुरुते दौहित्रोऽयं सुताधिकः। कश्चिद्गीतः प्रसिद्धोऽत्र ताल्भ्यपत्न्या पुरास्फुटः ॥३१॥ सपत्नीतनययं दृष्ट्वा विवादे तनयं प्रति । अयं तवानुजो मह्यद्वयञ्जलीदो हि तर्पणे ॥३२०।। ब्रह्मयज्ञेन दर्शादिश्राद्धषु तु न किञ्चन । ‘भागिनेयस्तु ते वत्स वत्सोऽयं सर्वकर्मसु ॥३२१॥ पैतृकेषु प्रसक्तषु स्वमातृकुलसाम्यतः । मद्वर्गस्य समग्रस्य व्यञ्जलीदो हि कोऽत्रमे ॥३२२॥ आवयोः प्रवरः प्रोक्तः को वा त्वं वद मे स्फुटम् । इति मातुर्वचः श्रुत्वा वत्सस्तु सुमहानृषिः ॥३२३॥ सपत्नीतनयात्तस्या दौहिमधिकं तराम् ।
॥दौहित्रत्रैविध्यम् ॥ शास्त्रविन्मन्यते नूनं समालोच्य स्वचेतसा ॥३२४॥