SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७३० लोहितस्मृतिः अकृते वा तस्य दोषः शास्त्रतो नास्ति केवलम् । मृताद्विशेषलाभश्चेदस्य तेन तु पश्यताम् ॥३०४।। सतां चित्तसमाधानकार्याय किल तत्तथा । अकीर्तिभीत्या न प्रीत्या तथास्य करणं परम् ॥३०।। दौहित्रमात्रस्य तु चेल्लोके सर्वत्र केवलम् । तत्कर्मण्यकृतेऽनेन मुख्यकर्ता कृतेऽपि च ॥३०६।। सर्वशास्त्रोक्तमार्गेण यथा पुत्रस्य सन्ततम् । सर्वश्राद्धककरणमौपासनशुचौ हितः ॥३०७।। तथास्यापि स्मृतं तूष्णीं तदीयद्रविणादिके। स्वल्पेकस्मिन्नभावेऽपि किञ्चिद्वा विहिनेन वै ॥३०८।। तदीयसर्वश्राद्धानि गयातीर्थाष्टकादिषु । नान्दीदधिघृतारण्यकक्षेष्विभतणादिषु ॥३०६।। तान्यजन्नेव विधिना तत्पनीरपि तत्समम् । वर्तते राजते तस्मादपिकिञ्चिद्धनं विना ॥३१०॥ तमजानन्नपि तदा शास्त्रमर्यादया वशात् । तत्कं वेत्यविचार्यैव तादृशानेन कः समः ॥३१॥ कर्मकर्ता प्रकथितो नैतेनान्यो महीतले। तुलितस्तनयस्सद्धिर्विचार्य च पुनः पुनः ॥३१२।। नास्ति सूनोश्शतगुणो दौहित्रो गयनामकः । खङ्गपात्रं तिलादर्भास्तथा नेपालकम्बलः ॥३१३।। गोधूमाः कण्टकिफलं माषामुद्गायवा जलम् । गव्यं तद्रजतं गाङ्गं शिवनिर्माल्यमच्युतम् ॥३१४।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy