________________
एकपुत्रत्वेदत्तकायोग्यतावर्णनम् २७२७
॥ एकपुत्रस्य स्वीकरणनिषेधः ।। यद्य कपुत्रो दत्तश्चेदात्मानं ग्राहकं ततम् । मातृद्वयं तत्क्षणेन नरके पातयिष्यति ॥२७४|| उभयोस्तातयोश्चापि जनन्योरपि कर्मणि । नाधिकारी भवेत्तस्मादुभयभ्रष्ट ईरितः ॥२७५।। प्रदानसमये स्वस्य सन्तु भ्रातृषु तत्परम् । नष्टेषु तेषु चेदवशिष्टो यदि भवेदयम् ॥२७६।। उभयोः कर्मकर्ता स्यात्तदा तद्रिक्थभाग्यपि । एकपुत्रोऽहमित्येवं वदन् दत्तश्च साम्प्रतम् ॥२७७।। सभायां व्यवहारेषु बहिष्कार्यों विचक्षणैः । विधवासगृहीतोऽहमिति जल्पन सभासु चेत् ।।२७८।। (च)छपेटिकाप्रदानेन छी(धिक)त्कार्यस्सद्य एव वै । विधुरेण प्रदत्तोऽस्मि दूरभार्येण वै तदा ॥२७॥ तथैव सङ्गृहीतोऽहं वदन्नेवं तु निर्भयम् । स दूरीकरणीयः स्याचोरवत्तु विशेषतः ॥२८॥ वर्णिना यतिनापत्सु दत्तोऽहं मातृमात्रतः । पितृमात्रेण दत्तोऽस्मि सगृहीतोऽहमित्यपि ॥२८॥ सद्भिस्सभासु विवदन् दुश्चरित्रः परस्वहृत् । निर्लज्जया न्यङ्गहीनः सज्जनाकृतिमावहन् ॥२८२।। पूर्वोत्तरविरुद्ध तद्विवदन्प्रलपन्नति । तस्य तत्प्रतिवाक्येषु यो वै तं निग्रहं शनैः ।।२८३।।