________________
पुत्रत्वस्याधिकारितावर्णनम्
२७२५ ज्ञातिमत्या कृता बन्धुसामन्तजनसम्मता । सा चेद्भत कृतानुज्ञा पुत्रग्रहणहेतवे ॥२३॥ फलत्येवेति धर्मज्ञा न चेत्तु न तु सिध्यति । ज्ञातिमत्या कृतं यत्तु पुत्रसमहणादिकम् ॥२४॥ धरादानक्रयाद्यवं वैश्वस्तं तत्तु सिध्यति । सर्वज्ञातिमतं यत्तद्दानं विश्वस्तया कृतम् ॥२५॥ धारं धाराकृतं चेत्तु सिध्यत्यत्र न चेन्न तु। दानकालनिषिद्धं यद्दानं धारं रहः कृतम् ॥२५६।। देशान्तरकृतं चापि न सिध्यत्येव सर्वथा । रण्डान्यदेशरचितभूमिदानं महात्मभिः ॥२५७।। तच्छौर्यकृत्यमित्येव निश्चितं शास्त्रवर्त्मना । अपुत्रपुत्रग्रहणं दौहित्राजनने भवेत् ॥२८॥ दौहित्रजननादूचं तदप्रामाणिकं भवेत् । यावन्नृणां विभक्तानां दौहित्रोत्पत्तियोग्यता ॥२५६।। तावत्तु तस्य स्वीकारे योग्यतापि न जायते । जातेन्द्रियाणां दौर्बल्ये दौहित्रे सति सङ्कटे ॥२६॥ अवशादसुसन्देहे पुत्रग्रहणमिष्यते। एकस्य पञ्चषेष्वस्य ग्रहणं ज्येष्ठखर्वयोः ॥२६॥ विहितो यस्य कस्यापि मध्य एकस्य सङ्ग्रहः । न तत्र ज्यैष्ठ्यकानिष्ठ्यनियमो मनुना स्मृतः ॥२६२।। ग्रहणं त्रिषु मध्यस्य त्रयाणां पञ्चसु स्मृतम् । त्रयाणां षट्सु खो वा ज्येष्ठो वा नियमो न हि ॥२६॥