SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २७२२ ___ लोहितस्मृतिः · तस्माद्दौहित्रतुलितो नास्ति पुत्रो जगत्त्रये। ॥ दौहित्रेसति पुत्रप्रतिग्रहाभावः॥ दौहित्रोत्पत्तिमात्रेण तत्कुलद्वयसंभवाः ॥२२१॥ उत्तारितास्सद्य एव भवेयुर्नात्र संशयः । तामभ्यनुज्ञां भार्यायाः पुत्रसङ्ग्रहहेतवे ॥२२२।। न दद्यात्सति दौहित्रे म्रियमाणः स्वयंपतिः। आपन्निवारकस्सोऽयं आपत्सापुत्रशून्यता ॥२२३॥ एक एव भवेन्नूनं दुहितातनयोऽखिलैः । दौहित्रे सति पुत्रस्य ग्रहणं न समाचरेत् ॥२२४॥ अजातपुत्रस्तेनैव पुत्र्ययं धर्मतो मतः । अविभक्तो ज्ञातिभिर्यस्त्वपुत्रो दैवयोगतः ॥२२॥ मृतश्चेत्तस्य ते सर्वे तन्मुखेनैव तक्रियाः। मन्त्रैः कारयितव्याः स्युरन्यथा पापभागिनः ॥२२६॥ ज्ञातयः प्रभवन्त्येव तक्रियामात्रतोऽस्य वै। तद्रव्यभाक्त्वं न भवेत् अविभक्ता यतस्तु ते ॥२२७॥ विभक्तास्ते खलु तदा भवेयुर्यदि तेन वै । ए मृते न चेत्तेषां ज्ञातीनां तु न किञ्चन ।।२२८॥ लशमानं हि किमपि धर्मतो न भवेद्ध वम् । द्रव्यं मृतस्य यद्वा तत्सवं पुत्रीसुतस्य वै ॥२२६॥ स्वीयमेव भवेन्नूनं तस्माज्जातेऽखिला भुवि । दौहित्रे भग्नमनसः नष्टकामा गतश्रियः ॥२३०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy