________________
पुत्रसंग्रहावश्यकतावर्णनम्
२७२१ तमुद्दिश्यदिवारानं प्रलपन दुर्मनाः परम् । राजाज्ञापान्भूतश्च सज्जनैरतिदूषितः ॥१०॥ संलंघ्यन् मित्रवाक्यानि बन्धुवाक्यानि भूरिशः। तृणीकुर्वन् दुष्टवाक्यसहस्रणायमल्पकः ॥२१॥ तुच्छो दूष्यः प्रभवति तन्मध्ये च पुनः पुनः । ताडितो धिक्कृतो राजकीयैः पुंभिः प्रदूषितः ।।२१२॥ हेयभूतश्च भवति तस्मात्पुत्रस्य सङ्ग्रहम् । प्रकुर्वन्त्येव विद्वांसः पुत्राभावे तु मुख्यतः ॥२१३।। दौहित्रे सति सोऽयं स्यात्पुत्रतुल्यस्ततोऽधिकः । न तस्य होमः कर्तव्यो ग्रहणं न च मन्त्रतः ।।२१४॥ क्रियाः काश्चिन्न सन्त्यत्र जातकर्मादिकाः पराः। तनयोत्पत्तिसमयेस्वर्णदानादिकं परम् ॥२१॥ यद्यत्तदेतदखिलं यत्नसाध्यं न विद्यते । स वा नूनं कृते किञ्चित् पुनरप्यतिवार्धके ।।२१६।। अस्यैव पुरतो दैवात्पुत्रे जातेऽथवा तदा । जातं तमेनं दौहित्रो मातुलो मम संप्रति ॥२१७।। संजातइति सन्तोषपूर्वकं तोषयिष्यति । तयोश्चित्तं स्वबन्धूनां पश्चाज्जातोऽप्ययं शिशुः ॥२१८।। संजातमात्रः परमः सर्वप्राणेन सन्ततम् । प्रपालयति स्वप्राणाधिकतो मानयन्नति ॥२१॥ मानितः पालितः सम्यक्त नैवं सति सोऽप्यति । प्रीत्यैव सततं पश्यन्प्रतिष्ठत्येव सर्वदा ॥२२०॥ १७१