________________
२७२०
लोहितस्मृतिः चरमस्त्वपविद्धस्तु कृताकृत इतीरितः । तस्मावावेव तौ प्रोक्तौ तनयौ शास्त्रविश्रुतौ ॥१६॥ नरकोत्तारको सद्यो जन्मनैव न कर्मणा। आत्मजश्चापिदौहित्रः समानौ पैतृकेऽनिशम् ॥२००॥ कदाचिदधिकश्चापि दौहित्रस्तनयादति । दौहित्रात्तनयस्तद्वदधिकः केषु कर्मसु ॥२०१।।
औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः। पुत्रभावोयस्य वा स्यात्कदाचित्केन कारणात् ।।२०२।। पुत्रसग्रहणं सद्यः कर्तुमाशु न शक्यते । चिरकालप्रतीक्षादौ तत्पित्रोः कामपूरणम् ॥२०३॥ तत्प्रार्थितप्रदानस्य शपथोक्त्यादिकं ततः । जनानां पुरतो होमः पश्चाच्छपथवाचनम् ॥२०४।। तस्यैतस्य तु कृत्स्नस्य तत्तत्काले शनैः शनैः । अत्यन्तदुःखं सुक्र रमनुभूय स भार्यकः ॥२०॥ तं सगृह्य विधानेन जातकर्मादिकं च तत् । कृत्वोत्सव नु भूय तस्य मौज्यादिपुस्वयम् ।।२०६॥ पश्चाज्जाते धर्मपन्यां तनये वा तदैव वै । द्वितीयायां तृतीयायां स्वकीयोत्पत्तिमात्रतः ॥२०७।। पूर्वकालगृहीतं तं कुमारं शुद्धचेतसम् । अपि तूष्णीं द्वष्टि किल तस्मादन्यसुतं हठात् ।।२०८।। सगृह्यचोभयत्रापि भ्रष्ट कृत्वा स्वयं ततः । अत्यन्नपातकावासमिथ्यावाक्यविशेषकान् ॥२०॥