SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ द्वादशविधपुत्रवर्णनम् देवरादिसुतोत्पत्तिः विधवागर्भधारणम् । एवमादीनि चान्यानि कर्माणि न कलौ क्षितौ ॥ १६६ ॥ ॥ द्वादशविधपुत्राः ॥ प्रशस्तानीति नोचुर्हि तथा द्वादशपुत्रकान् । तत्रादौ क्षेत्रजो दुष्टः स्वपत्न्यामन्यसंभवः || १७०|| सगोत्रेणेतरेणापि तावुभौ शास्त्रनिन्दितौ । स्वस्मिन्व्याध्यादिना प्रस्ते सति सान्येन सङ्गता ॥ १७१ ॥ येन केनचिदज्ञाता गर्भ धृत्वा रहस्यति । प्रसूते यं सुतं सोऽयं सुतो गूढजनामकः ॥ १७२॥ पितृमात्रेण संज्ञातजननो व्यभिचारजः । पितृणां सर्वनरकप्रदः पापालयः खलः ॥१७३॥ बन्ध्वबन्धुप्रभेदेन द्विविधोऽयं च कथ्यते । या विवाहात्पूर्वमेव जारसङ्गतितः किल ॥१७४॥ गर्भेधृतेऽथ तर्ज्ञात्वा सत्वरमेव वै । विवाहितात्पितृभ्यां हि दत्वा वै यस्य कस्यचित् ॥ १७५॥ अकीर्त्यैकभयात्सद्यः सा प्रसूते तु यं सुतम् । कानीन इति विख्यातः पुनश्चायं तथा परः ॥१७६॥ प्रकारान्तरतः प्रोक्तः सूते कन्यैव यं सुतम् । सोऽयं तथाविधश्चापि प्रथितस्तेन दुर्जनिः || १७७|| तन्माता पतिता पश्चाद्यस्य कस्य विवाहिता । कुलनी सच्चरित्रेव गुह्यपापातिनिन्दिता ॥१७८॥ २७१७
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy