________________
२७१४
लोहितस्मृतिः कर्तव्यत्वेन विहितो न चेद्वानन्तरं पुनः। तस्मिन्नेव च संसर्गहोमं कुर्याद्यथाविधि ॥१३६॥ किमर्थमेवमिति चेत्सा भ्रष्टापितदुद्भवः । वहिरिशवो न संन्त्याज्यः आत्मगाम्येव वै यतः ।।१३७॥ सोऽयमेव प्रधानोऽग्निः यजमानस्य केवलम् । गार्हस्थ्यदायकः श्रीमान् ब्रह्मचयनिवारकः ॥१३८।। प्रबलस्तेन कथितस्तस्मिन् सति ततः शिवे । मुख्यानावात्मनि परे तमनादृत्य केवलम् ॥१३॥ वहिं गार्हस्थ्यदं दिव्यं पत्नीप्रदूषतो जडः। यदा पत्नी गता भ्रष्टा तदा सोऽपिविभावसुः ।।१४०।। नष्ट एवेतिनिश्चित्य दुर्बुद्धा शास्त्रवर्त्म तत् ।। अज्ञात्वेव जडो जाड्यं प्राप्य दुष्टधिया वृथा ॥१४॥ द्वितीयानिमुखाद्यद्यत्कर्म भ्रान्त्या करोतिचेत् । व्यर्थमेव भवेन्नूनं फलदं न भवेदपि ॥१४२॥ श्राद्धादित्यागदोषाय पात्रमेव भवेद्ध वम् । सति तस्मिन्प्रधानानौ वात्मन्यत्राशुशुक्षणौ ॥१४३॥ द्वितीयाद्यनले लौकिकत्वेनैव समे स्थिते । अमन्त्रेणैव होतव्ये समन्त्रेण कृतं तु चेत् ॥१४४।। व्यत्यासेन कृतं तच्च तूष्णीकं प्रभविष्यति । पित्रोः श्राद्ध तथा व्यर्थे जाते तत्परमेव वै ॥१४।। सद्यश्चण्डालता सा स्यादनिवार्या सुरैरपि । पुनर्मोहेन तस्मिन्वै द्वितीयाद्यनलेऽल्पके ॥१४६।।