SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ गृह्याग्निरक्षणविधिवर्णनम् २७१३ कृत्वा तस्मिन्वीतिहोत्रे तानि कर्माणि चाचरेत् । द्वितीयाद्यनलेष्वेवं विद्यमानेषु चेत्पुनः ॥१२।। अमन्त्रकेण होतव्यं अन्यथा कर्म नश्यति । कंचित्कालं धर्मपत्नी स्वधर्मेणस्थिता ततः ॥१२६।। चित्तव्यामोहरुक्क्रोधोऽपस्मारादिकुबुद्धिभिः। भर्तारमपि संलङ्घय भ्रष्टा तुच्छातिचारिणी ॥१२७।। जाता यदि तदा तस्यास्तमग्निं धार्य धर्मतः । विद्यमानं समिनिष्ठमथवात्मनि संस्थितम् ॥१२८।। तत्तत्कालेषु संप्राप्तश्राद्धषु च तथा पुनः । पित्रोश्च मातामहयोदर्शादिषु च कृत्स्नशः ॥१२॥ नित्यनैमित्तिकेष्वेवं स्थालीपाकेषु मन्त्रतः । हुत्वाज्यं व्याहृतीभिः सर्वचित्तप्रपूर्वकम् ॥१३०॥ तस्मिन्नेव प्रधानाग्नौ तानि कर्माणि चाचरेत् । अतिदुष्टेति या वत्सा त्यज्यते मन्त्रसंस्कृता ॥१३॥ ते नैव वह्निना दाहं प्राप्यते घटताडनात् । तावत्तस्मिन् पावके तु तद्भर्ता पितुराब्दिकम् ॥१३२।। स्थालीपाकं तथा धानं यच्चान्यदपि वैदिकम् । संप्राप्तमखिलं कुर्याद्विवाहो यदि वा पुनः ॥१३३।। घटप्रहरणाभावे कर्तव्यत्वेन निश्चितः । तस्मिन्वह्नौ विद्यमाने समिध्यात्मनि वा सदा ॥१३४|| विद्यमानं मन्त्रमुखात् पुनस्सन्धाय वा ततः । तस्मिन्वह्नौ विवाहोऽयं द्वितीयो मन्त्रपूर्वकः ॥१३।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy