________________
गृह्यामिकृत्येत्रियोमुखत्वम् २०११ सोमसंस्थासप्तसंस्थाः नित्यनैमित्तिकास्सवाः । सहस्रसंख्याः . काम्याश्च यज्ञेष्टिपशुकादयः ॥१०३।। अहीनाः क्रतवश्चापि सत्रास्ते विविधाः पुनः। धर्मपल्यनलाजातास्तेषामोपासनस्य तु ॥१०४॥ प्रथमः कथितस्सद्भिः मुखं प्रवर उत्तमः। तत्समो विद्यते भूमौ मूलभूतश्चकारणम् ॥१०॥ तादृशस्यास्य करणं धर्मपत्न्येव मुख्यभूः। तदधीना वहयः स्युस्तस्मात्सा सन्ध्ययोद्वयोः ।।१०६।। सीमासन्धिप्रदेशेषु न गच्छेदेव सर्वथा। नदीपाथः परंपारं न गच्छेदेव सर्वथा ॥१०७।। यदि मोहेन सा गच्छंद्वयस्सद्य एव वै। लौकिकत्वं प्राप्नुवन्ति तस्मात्तु सरितं नदीम् ।।१०८॥ महानदीमल्पनदीं यत्नानातिक्रमेत वै। ना त्तरणमात्रेण धर्मपल्या विशेषतः ॥१०॥ पत्नीमात्रस्य सामान्यात्सजातेरपि केवलम् । पक्षवन्तो वह्नयस्ते प्रद्रवन्त्याशु तत्क्षणात् ॥११०॥ तस्मादत्यल्पसलिलकुल्यागोष्पदमात्रकाः । सरित्स्नानाय गन्तव्या न भवेत्तु तया किल ॥१११।। यदि मोहेन सा पत्नी अत्यल्पसलिलामपि । कुल्यारूपामतिस्वल्पविशालां पादमात्रतः ॥११२॥ सुसन्तरेयां हेलाथं लक्ष्यन्नतु सर्वदा । स्रवन्त्या अपि तादृश्याः परे पारेऽतिबाल्यतः ॥११३।।