________________
२७०६
.. लोहितस्मृतिः ज्यैष्ठ्यकानिष्ठ्यधर्मेषु न्यूनाधिक्येष्वपि स्फुटम् । धर्मपत्नीसुतेनैव स दत्तो भिन्नगोत्रजः ॥५०॥ तुर्यभागीति कथितः न द्वितीयादिसूनुना । विशेषोऽत्रापि भूयश्च पालको यद्यकिञ्चनः ॥१॥ महाचारित्रबन्धुत्वशुश्रूषाद्यनुवर्तनः। श्रीमनामतितुष्टाभ्यां पितृभ्यां प्रीतिपूर्वकम् ॥५२॥
॥ दत्तपुत्रविषयः॥ कृपया दत्तपुत्रः श्रीभूमिक्षेत्रादि भाग्यवान् । बहुलो जातपुत्रश्च शनैः कालेन वै तदा ॥३॥ वृद्धि तां परमां प्राप्तस्तत्सून्वोश्च ततः परम् । तुल्यो भागः प्रकथितो न विवादः कदात्र वै ॥५४॥ तत्रापि जैष्ठ्यकानिष्ठ्य मात्रीचात्मजहेतुतः। विवदन् चात्र यः पापी राष्ट्रात्सद्यस्स एव हि ॥५॥ निर्वास्यस्ताडनीयश्च राज्ञा वै धर्म भीरुणा । एतेन सर्वदत्तानां पुत्राणामयमेव वै ॥५६॥ न्यायः प्रकथितस्सद्भिः एवं सत्यत्र केवलम् । एवं हि निश्चयो ज्ञेयः यो वा लोके त्वकिश्चनः ॥५७।। परश्रियं समुद्वीक्ष्य महिमानं च पूज्यताम् । तत्साम्यप्राप्तयेऽतीव कालमुद्वीक्ष्य केवलम् ॥८॥ परापुत्रत्वदुःखज्ञो भूत्वा पश्चात्स्वयं शनैः। युवाभ्यां तनयं स्वीयं प्रदास्यामीति तौ तराम् ॥५६।।