SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ पत्नीसुतानांज्येष्ठत्वादिविचारवर्णनम् २७०५ सायंप्रातहोमकाले धर्मपल्यास्सदैव हि। सीमोल्लङ्घनमात्रेण सद्योऽनिलौकिको भवेत् ॥४०॥ तदधीनो यतो वह्निस्तथा तस्मात्प्रयत्नतः । तां धर्मपत्नी तत्सीम्नः तत्कालोल्लवनं यथा ॥४१॥ न करोत्येव सा यत्नात्तथा यत्नेन बोधयेत् । कदाचिद्यदि सा मोहादवशादुःखपीडनैः ॥४२॥ सीमान्तरं प्रविष्टास्यात्पुनस्सन्धानमाचरेत् । अपस्मारादिना सा चेदभिभूतावशा भवेत् ॥४३॥ निरोधयेद्गृहेष्वेव नो चेदग्निस्तु लौकिकः। ॥ज्येष्ठादिपत्नीनां तत्सुतानां च ज्यैष्ठ्यकानिष्ठ्यविचारः।। धमपत्नी वयोन्यूना द्वितीया वयसाधिका ॥४४|| धर्मपत्न्येव सततं ज्यैष्ठ्यमहति कर्मसु । वयोधिका द्वितीया सा सदा कानिष्ठ्यभागिनी ॥४॥ भवेदेवेतिनिखिलाः प्राहुस्ते ब्रह्मवादिनः । द्वितीयादिसुतोज्येष्टः वयसा कर्मशीलतः ॥४६।। अधिकोऽप्याहिताग्निर्वा जातपुत्रो बहुश्रुतः। न ज्येष्टपत्नीतनयान्मौञ्जीविरहितादपि ॥४७॥ न समो धर्मतः प्रोक्तः सोऽयमेवौरसः परः । आत्मजश्चापे कथितो द्वितीयादिसुतास्तुते ॥४८॥ कामजा इति हि प्रोक्ताः श्रुतिस्मृत्यर्थदर्शिभिः । एतेनैव प्रकथिता स्तृतीया तुर्यकादयः ॥४॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy