SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २७०४ लोहितस्मृतिः क्रमेणेतरकर्माणि न व्यत्यासेन तवरेत् । पृथनित्यं तथाकर्तुमशक्तश्चेद्विचक्षणः ॥३०॥ ॥अनेकाग्निसंसर्गः॥ सर्वेषामपि वह्नीनां संसर्ग विधिनाचरेत् । संसर्गे तु कृते होमे चैको वह्निस्ततो भवेत् ॥३१॥ ततो होमे कृते तावन्मात्रेणैव समन्त्रकम् । सर्वत्रापि कृतं सम्यग्भवत्येव न संशयः ॥३२॥ धर्मपत्नीवीतिहोत्रे प्रधानेऽस्मिन्यथाविधि । क्रमेणैव स्थापयित्वा हुत्वामन्त्रस्तुतैरति(पि) ॥३३॥ योजयेत्तेन विधिना नान्यावह्नौ कदाचन । प्राधान्येन प्रधानाग्निं कृत्वा तस्मिन् परानशुचीन् ॥३४॥ योजयेत्समिताद्यस्तु चरुधर्मेण धर्मवित् । कदाचिन्मोहतो यो वा द्वितीयाद्यनलेषुचेत् ॥३।। संसर्ग कुरुते मूढः प्रधानमितरास्तु वा । सर्वे नष्टाह्यमयस्ते लौकिकत्वं भजन्ति हि ॥३६॥ तद्दोषशमनायाथ पुनरग्निं यथाविधि । प्रतिष्ठाप्याखिलैर्दारैरुपविश्य यथाक्रमम् ॥३७॥ प्रधानहोमं कुर्वीत लाजहोमं च पूर्ववत् । पत्नीसंख्याविधानेन पश्चात्तत्सिद्धिरीरिता ॥३८।। अन्यथा दोषमाप्नोति नात्र कार्या विचारणा । श्रोताग्नौ विद्यमाने स्वायतने तु तदान्वहम् ॥३॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy