________________
वैश्वदेवमाहात्म्यवर्णनम् २६६६ ब्रह्मार्पणं हविस्तत्स्यापितॄणां दत्तमक्षयम् । देवेभ्यश्च पितृभ्यश्च ऋषिभ्यश्च तथा हविः ॥७॥ आदौ वह्निमुखे दत्तं तृप्त्यै भवति नान्यथा । यस्त्वनौ न हुतं चान्नं दैवे पित्र्ये प्रयच्छति ॥७३॥ गोत्रपान्नं भवत्येव वृथा श्राद्धं न संशयः। नित्यश्राद्ध गयाभाद्ध तीर्थश्राद्ध तथैव च ॥४॥ वैश्वदेवं हुनेदादौ ततः श्राद्धं समाचरेत् । स्वाहाकारेण हुत्वादौ स्वधाकारेण वै ततः ॥७।। एवं होमत्रयं कृत्वा ततः श्राद्धं समाचरेत् । वैश्वदेवविषये :हविष्यमन्नं घृतसकुलं च
__ वह्रौ समांशं जुहुयात्रियामम् । द्वयोत्तरं त्रिजति(१) युग्मसंज्ञ
ओढारमादौ प्रतिमन्त्रयुक्तम् ॥७६॥ रसयुक्त हविष्यं स्याद्धृतयुक्त तथो(थौ)दनम् । ब्राह्मणो वैश्वदेवार्थ कुर्यान्नित्यमतन्द्रितः ॥७॥ अन्यस्य चेद्रसं त्यक्त्वा वैश्वदेवं करोति यः । देवेभ्यश्शापमाप्रोति दरिद्रो भवति ध्रुवम् ॥७८।। सुपक्कं रससंयुक्त राजान्नं घृतसंयुतम् । तद्धविष्यमिति ज्ञातं सुप्रीतानिदशादशः ॥७॥ पर्वद्वये समायोगे श्राद्धान्ते वैश्वदेवार्थ पाकं कृत्वाप्रयत्नतः ॥८॥