________________
२६६८
विश्वामित्रस्मृतिः नानाभावैः प्रयत्नेन रण्डापाकं परित्यजेत् । वीररण्डा कुण्डरण्डा बालपुत्राह्यपुत्रिणी ॥६॥ तासां पाको न भोक्तव्यो भुक्त्वा चान्द्रायणं चरेत् । अस्माता विधवा चण्डी पक्काशी माससूतकी ॥६॥ पञ्चपक्वान्त्यजेद्विप्रः तत्प्रेष्यं च परित्यजेत् । पाकं कृत्वा प्रयत्नेन ह्यभुक्त्वा भोजने विषम् ॥६३।। रण्डापाकं महापापं वैश्वदेवे परित्यजेत् । नाहुतं पाकमनीयादनैवेद्य स मन्यते ॥६॥ रण्डापाकं विषं क्रूरं अहुत्वान्नं तथा विषम् । द्विविधं यन्त्रसंयुक्त तदन्नं कालकूटकम् नाना भावैः प्रयत्नेन रण्डापाकं परित्यजेत् । प्रमादात्प्राप्यते चान्नं प्राणायामांश्चतुर्दश ॥६६।। कुर्यात्कुम्भकमार्गेण न्यामध्यानपुरस्सरम् । मन्त्रराजहविर्भागं प्रथमं वैश्वदेविकम् ॥६॥ कृत्वा श्राद्धं प्रकुर्वीत नित्यनैमित्तिकं चरेत् । श्राद्धाग्नौ करणात्पूर्व वैश्वदेवं विधाय च ॥६॥ ततोऽनौ करणं कुर्यादन्यथा श्राद्धघातकः । वैश्वदेवं विना यस्तु श्राद्धकर्म समाचरेत् ॥६॥ वृथा श्राद्धं भवेत्तञ्च रौवं नरकं व्रजेत् । नित्यनैमित्तिके श्राद्ध पक्त्वा चान्नं प्रयत्नतः ॥७०।। ततो होमं प्रकुर्वीत ब्राह्मणान् भोजयेत्ततः ! यदन्नौ करणं कुर्याद्वश्वदेवपुरस्सरम् ॥१॥