________________
पञ्चसूनापनुत्त्यर्थवैश्वदेवविधिवर्णनम् २६६७ वैश्वदेवाकृतादोषाच्छक्तो भिक्षुळपोहितुम् । पादुकायोगपट्टं च पवित्रं चित्रकम्बलम् ॥५०॥ स्वाहां स्वधा वैश्वदेवे तर्जन्यां रजतं तथा। वजयेज्जीवपितृकः कुर्यान्नित्यं षडाहुतीः ॥१॥ यदि पित्रा समाज्ञप्तो वैश्वदेवं समाचरेत् । असंस्कृतान्ननैवेद्य स्थावरेषु गृहेषु च ॥५२॥ स्वाहाकारं विना यस्तु कुरुते ब्रह्मराक्षसः । चराचरादिदेवानां हविष्यान्नं निवेदयेत् ॥५३।। पञ्चसूनापनुत्त्यर्थं वैश्वदेवं विधाय च । पञ्चसूनापनुत्त्यर्थं प्रायश्चित्तं हुनेद्धविः ॥४॥ तत्परं देवताभ्यस्तु नैवेद्यं परिकल्पयेत् । वैश्वदेवार्पणं येन द्विजदेवार्पणं हविः ॥५।। कुर्वन्ति ते महापापात्तद्धविः क्रिमिसकुलम् । रण्डावन्ध्याकृतः पाको बधिरामूकयोस्तथा ॥५६।। निष्फलायाश्च गुर्विण्या न भोक्तव्यं कदाचन । रण्डापञ्चविधं ज्ञात्वा प्रयत्नेन परित्यजेत् ॥५॥ श्मशाने चितिसंयुक्त प्रज्वाल्याभीष्टकाष्ठवत् । कन्या वैधव्यमापन्ना वीरेत्याचक्षते बुधैः ॥१८॥ रोहिणी विधवा भर्ता सा रण्डेत्यभिधीयते । दुर्भगः दशवर्षा या सा कन्या समुदीरिता ॥५॥ रजसः परतस्सा तु यातुकी. विधवा भवेत् । असन्ततिश्च या नारी सा रण्डेत्यभिधीयते ॥६॥