________________
वैश्वदेवकालनिर्णयवर्णनम् २६९५ वैश्वदेवं ततः . कुर्यात्क्रमेणैव यथाविधि। बलिदानं ततः कुर्यात्प्रायश्चित्तं विधीयते ॥२८॥ सूतकद्वयसंप्राप्तौ नित्यहोमं परित्यजेत् । पारायणं प्रकुर्वीत वाचकोपांशुवर्जितम् ॥२६।। एकादशेऽह्रि संप्राप्ते पृथक्पाकं प्रकल्पयेत् । वैश्वदेवं प्रकुर्वीत बलिकर्म यथाविधि ॥३०॥ प्रेतश्राद्ध पृथक्पाकं वैश्वदेवं समाचरेत् । क्षये दर्शे च पक्षे च एकपाको विधीयते ॥३१॥ प्रेतश्राद्ध विना येन पृथक्पाकः कृतो यदि । राक्षसाः प्रतिगृह्णन्ति पाककर्ता पतत्यधः ॥३२॥ वैश्वदेवप्र(करणस्य) कालस्यात्र विनिर्णयम्। . सूर्योदयं समारभ्य घटिकाःस्युश्चतुर्दश ॥३३।। घटिका पञ्चदश च षोडश स्युः ततः परम् । ततस्सप्तदश प्रोक्ताः ततश्चाष्टादश स्मृताः ॥३४॥ सङ्गमान्ते ब्रह्मयज्ञं कुर्यास्नानपुरस्सरम् । मध्यसन्ध्यां तर्पणं च वैश्वदेवमिति क्रमात् ॥३॥ मध्यकाले तु मध्याह्न दक्षिणायनगे रवौ । वश्वदेवं प्रकुर्वीत मध्यकालाच पूर्वतः ॥३६।। मध्याह्रान्ते वैश्वदेवं घटिकानवकात्परम् । उत्तरायणगे सूर्ये वैश्वदेवं समाचरेत् ॥३७॥ चतुर्दशघटीभ्यस्तु मार्तण्डस्योदयावधि। परतस्तर्पणं कृत्वा वैश्वदेवं समाचरेत् ॥३८॥
liianlulu1111