SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ बलिप्रकरवर्णनम् २६६३ दिवा सूर्याय रात्रौ चेदनये च हुवेद्धविः। प्रजापतय इत्येकामुभयोराहुति हुनेत्(?) ॥६॥ प्रणवव्याहृतिभिश्च हुत्वामन्त्रैः स्वशाखिभिः । भूतेभ्यश्चबलिंदद्यात् आयुष्कामो दिवारात्रौ शूपाकारं बलिं हरे । . मृत्युरोगविनाशार्थ नराकारं बलिं हरेत् ॥८॥ काम्ये कर्मणि वाक्ये च बलिं वल्मीकवद्धरेत् । आयुरारोग्यमैश्वर्यं पुत्रान्पौत्रान्पशृंश्च यः ॥ ६ ॥ काङ्क्षते स च मोक्षार्थी चक्राकारं बलिं हरेत् । धर्मार्थकाममोक्षार्थ व्यजने च बलिं हरेत् ॥१०॥ पञ्चवैतेषु विप्राणां मुख्यमेतचतुर्थकम् । प्रथम चोपवीतं स्याद्वितीयं च निवीतिकम् ॥११॥ तृतीयं पितृमेधार्थ वैश्वदेवे विधीयते । तण्डुलोदकसंयुक्त पाकं कुर्याद्विशेषतः ॥१२॥ तप्तोदकस्य मध्ये तु तण्डुलं नैव पाचयेत् । तप्तोदकस्य मध्ये तु तण्डुलं पाचयेद्यदि ॥१३॥ तण्डुलं गरलं ज्ञेयं तुल्यं गोमांसभक्षणम् । अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ॥१४॥ अस्नेहा अपि गोधूमा यवा गोरसमिश्रिताः । पाक मध्ये घृतं दत्वा पाकादुत्तीर्य यत्नतः ॥१॥ तस्योपरि घृतं क्षिप्त्वा भागान् कुर्याद्विशेषतः । यज्ञार्थे देवपूजार्थे विप्रार्थे बलिकर्मणि ॥१६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy