SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सूर्योपासनाविधिवर्णनम् २६९१ कृत्वा माध्याहिकी सन्ध्या त्रयोदशपटीपरम् । .. आवर्तनान्तं प्रजपेदुपस्थानं ततः परम् ।।१०।। नित्यं जाप्यं विना यस्तु उपस्थानं करोति चेत् ।। सौरमन्त्रैश्च सकलैः गायत्रीजपपूर्वकम् ॥१॥ प्रत्यगासूर्यमालोक्य उपस्थानं समाचरेत् । उदयेऽस्तमये जप्त्वा दुर्गोपस्थानमाचरेत् ॥१२॥ मध्यन्दिने जपान्ते च सूर्योपस्थानमाचरेत् । आश्वलायनगृह्योक्तमृग्यजुस्सामशाखिनाम् ॥१३॥ जपोपस्थानयोरन्ते सौरं पश्चार्चनं यजेत् । प्रभान्तमुद्यत्प्रतिभास्यमानो बिम्बं समालोक्य कृतोदितो वदेत् । मन्त्रस्य चार्षादिऋचं च याजुषैः शाखान्तरोक्तास्तु(समु) उपासनीयाः ॥१४॥ त्रिपदाजपसाद्गुण्यं तुर्याजाप्यं दशांशकम् । तुर्यपादं विना जाप्यं कुरुते निष्फलं भवेत् ॥१॥ मित्रस्य चर्षणीमन्त्रं याजुषोपासनक्रमात् । प्रातर्जपान्ते गायत्र्याः सूर्योपस्थानमाचरेत् ॥१६॥ आसत्येनेति मन्त्रेण षडचोक्तविधानतः । मध्यन्दिने रविं ध्यायेज्जपान्ते विधिवक्रमात् ॥१७॥ सायं भानोरस्तमयाद्विघटी कर्मसंयमे । ऋक्षप्रकाशपर्यन्तं जपन् देवी मनोहराम् ॥१८॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy