________________
अथ सप्तमोऽध्यायः उपस्थानविधिवर्णनम्
॥ उपस्थानम् ॥ अथातस्संप्रवक्ष्यामि उपस्थानविधि क्रमात् । ऋक्शाखोक्तने विधिना जातवेदस इत्युचम् ॥ १॥ प्रातःकाले च सायाहे जपेच्वेत्युक्तमार्गतः। मध्याह्न च पृथक्सन्च्या योदित्यं जातवेदसम् ॥२॥ सहस्रपरमां देवीं मध्याह्न च जले द्विजः। सूर्यावलोकनं कुर्वन् दुर्गोपस्थानमाचरेत् ॥३॥ सायाह्न सूर्यमालोक्य दद्यादय॑चतुष्टयम् । मृक्षप्रकाशपर्यन्तं जपेदेवं चतुष्पदाम् ॥४॥ जातवेदस इत्येषां प्रातस्सायमचं जपेत् । जलान्ते विधिवत्कुर्यात् उपस्थानं समाहितः॥५॥ हंसमन्त्रं समुच्चार्य गायत्री त्रिपदां वदन् । अर्घ्यमेकं तु मध्याहृ ऋग्यजुस्सामवेदिनाम् ॥६॥ प्रायश्चित्तं द्वितीयाध्यं असुराणां वधाय च । अर्घ्यद्वयं तु मध्याह्न सर्वेषामेवमेव हि ॥७॥ अर्घ्यप्रदानात्परतो गायत्री पूर्ववजपेत् । आवर्तनं गते सूर्ये उपस्थानं समाचरेत् ॥ ८॥ उदित्यमिति मन्त्रेण ऋकशाखोक्तविधिक्रमात् । मध्यंदिने रविध्याने प्रातस्सायाह्नवद्भवेत् ॥६॥