________________
कराङ्गन्यासवर्णनम्
२६८५ प्रणवं प्राणशक्तिं च पाशमायाङ्कुशानि च। तृतीयस्वरसंयुक्तं यादिहान्तं समुच्चरन् ॥२६॥ मम प्राणा इरात्यादि वह्निजायान्तमुच्चरेत् । पाशादित्रितयं प्राणशक्तिं तारं समुच्चरन् ॥३०॥ इमं मन्त्रं सकृजप्त्वा प्राणस्थापनमाचरेत् ।
॥ अङ्गन्यासः॥ करेण हृदयं स्पृष्ट्वा गुरोराज्ञानुसारतः । जपेन्मन्त्रमिदं सम्यग्दशवारं यथाविधि ॥३॥ खस्य शाखोदितं प्राणसूक्तं वारत्रयं जपेत् । प्राणसूक्त त्रिरावृत्त्या आद्यन्तं प्रणवं युतम् ॥३२॥ प्राणायाम प्रकुर्वीत पिण्डब्रह्माण्डसंयमे।। मूलादिब्रह्मरन्ध्रान्तं प्रवालपद्मरागमयदण्डानुकारिणीम् अखण्डमुज्ज्वलन्ती सविस्मयां अखिलदुरिततिमिरनिरस्तपटीयसी ज्योतिर्मयीं त्रिपदा सतुरीयमन्त्रराजानुवर्तितेजः पुञ्जपञ्जरीकृतज्योतिर्मयस्वरूपिणी यावच्छवांसस्पृशशरीरशासनं कुर्यात् । हकारं प्रणवो ज्ञेयः सकारं प्रकृतिस्तथा ॥३३॥ प्राणायाम प्रकुर्वीत . मातृकावर्णकः क्रमात् ।। करशुद्धिश्च कर्तव्या षड्दीर्घस्वरसंयुतैः ॥३४॥ ऋष्यादिषट्कं विन्यस्य कराङ्गन्यासमाचरेत् । भृषि मूनि न्यसेत्पूर्व मुखे छन्द उदीरितम् ॥३॥