________________
२६८६
· विश्वामित्रस्मृतिः देवता हृदि विन्यस्य नाभौ बीजमिति स्मृतम् । आधारे विन्यसेच्छक्तिं कीलकं पादयोन्यसेत् ॥३६॥ ऋषिब्रह्मा समाख्यातो गायत्री छन्द उच्यते । देवो बहिर्मातृका स्याद्धलो बीजानि च स्वरा ॥३७॥ शक्तयश्च समाख्याता नमः कीलकमुच्यते । द्वाभ्यां द्वाभ्यां हकारादिवर्णाभ्यां संपुटीकृतैः ॥३॥ कादिवर्णैस्तत्त्वयुक्तः कराङ्गन्यासमाचरेत् । त्रिलोकैन्धनं ध्यानं योनिमुद्रां प्रदर्शयेत् ॥३॥
पञ्चादशाक्षरविनिर्मितदेहयष्टिं
फालेक्षणां हतहिमांशुकलाभिरामाम् । शुद्राक्षसूत्रमणिपुस्तकयोनि(ग)हस्तां
___ वर्णेश्वरी नमत कुण्डहिमांशुगौरीम् ॥४०॥ केशान्ते मुखमण्डले नयनयोः श्रोत्रद्वये नासयोः । दन्तोष्ठद्वयदन्तपत्तियुगले मूर्ध्यासने तु स्वरान् ॥४२॥ दोः पत्सन्धितदप्रपादयुगले पृष्ठे च नाभ्यन्तरे । याद्यानपि सप्तधातुषु तथा प्राणेषु जातानि तु ॥४२॥ ततोऽन्तर्मातृकान्यासं कुर्याद्विध्युक्तमार्गतः। तारत्रयेण कुर्वीत प्राणायामं समाहितः ॥३३॥ ऋषिश्छन्दो देवता च बीजं शक्तिश्च कीलकम् । ब्रह्मा च लिपिर्गायत्री ततोऽन्तर्मातृका मता ॥४४।। वाग्भवं शक्तिबीजं च श्रीबीजं च त्रयं तथा। तारत्रयमिति ख्यातं ज्ञात्वा न्यासं समाचरेत् ॥४शा