________________
२६८४
विश्वामित्रस्मृतिः विलसितकनकप्रभं पद्य ध्यात्वा तत्र विद्युल्लतायां कुलकुण्डलिनी सुषुम्नावर्तषट्पत्रभेदक्रमेण ब्रह्मरन्ध्र नीत्वा तत्र कुलसहस्रकर्णिकामध्यस्थितसंम्पूर्णगायत्री ओङ्कारस्वरूपपरमात्मनि शिवे लीनां कुर्यात् । पाशमायाङ्कुशैबीजप्रणवादिनमोऽन्तकैः। प्राणायामं प्रकुर्वीत एवमष्टोत्तरं शतम् ॥॥२१॥ पञ्चपूजां प्रकुर्वीत स्वात्मनो इंसरूपिणः । सोऽहं भावेन युञ्जीयादाकाशाद्रविमंडले ॥२२॥ आकृष्य धारयेद्दवी(प्राणस्थापन)प्राणस्नापनमाचरेत् । हृदिस्थजीवं चैतन्यं हंस इत्यक्षरद्वयम् ।।२३।। सोऽहं भावेन संपूज्य पञ्चपूजानुसारतः । उक्तसंख्याप्रकारेण प्राणायाम समाचरेत् ॥२४॥ प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वराः । मृषयः कथितास्तस्य छन्दांसि निगमत्रयम् ॥२।। देवता प्राणशक्तिःस्याद्वीजं शक्तिश्च कीलकम् । पाशादित्रितयं प्राणस्थापने विनियुज्यते ॥२६।। बीजराजं पाशबीजं चैतन्यं चाङ्कशं तथा। हंसद्वयं ततः पश्चात्पञ्चाशद्वर्णमन्त्रतः ॥२७॥
नादैस्संपुटितैः क्रमात् । वगैश्च यादिक्षान्तार्णैः(स)नत्याभ्यां संपुटीकृतैः । पञ्चविंशतितत्त्वैश्च कराङ्गन्यासमाचरेत् ॥२८॥